Categories
Chalisa

महाकाल शनी मृत्युंजय (Mahakal Shani Mrityunjay Stotra)

हिंदी में पढ़ने के लिए यहाँ क्लिक करें.

महाकाल शनि मृत्युंजय स्तोत्र एक ऐसा दिव्य स्तोत्र है जिसे स्वयं भगवान शिव ने माता पार्वती को बताया था। इसका नियमित पाठ मनुष्य को अकाल मृत्यु, गंभीर रोग, और शनि दोषों से बचाता है।
यह स्तोत्र भगवान शिव के महाकाल स्वरूप और शनि देव के गूढ़ रहस्यों को प्रकट करता है। शिवजी ने कहा था कि जो भक्त इस स्तोत्र का नियमित और श्रद्धापूर्वक जाप करता है, उसे शनि देव की कृपा शीघ्र प्राप्त होती है।

महाकाल शनि मृत्युंजय स्तोत्र (Mahakal Shani Mrityunjay Stotra)

विनियोग:-

ॐ अस्य श्री महाकाल शनि मृत्युञ्जय स्तोत्र मन्त्रस्य पिप्लाद ऋषिरनुष्टुप्छन्दो महाकाल शनिर्देवता शं बीजं मायसी शक्तिः काल पुरुषायेति कीलकं मम अकाल अपमृत्यु निवारणार्थे पाठे विनियोगः ।

श्री गणेशाय नमः ।

ॐ महाकाल शनि मृत्युंजयाय नमः

नीलाद्रीशोभाञ्चितदिव्यमूर्तिः खड्गो त्रिदण्डी शरचापहस्तः ।
शम्भुर्महाकालशनिः पुरारिर्जयत्यशेषासुरनाशकारी ॥ 1 ॥

मेरुपृष्ठे समासीनं सामरस्ये स्थितं शिवम्‌ ।
प्रणम्य शिरसा गौरी पृच्छतिस्म जगद्धितम्‌ ॥ 2 ॥

॥ पार्वत्युवाच ॥

भगवन्‌ ! देवदेवेश ! भक्तानुग्रहकारक ! ।
अल्पमृत्युविनाशाय यत्त्वया पूर्व सूचितम्‌ ॥ 3 ॥

तदेवत्वं महाबाहो ! लोकानां हितकारकम्‌ ।
तव मूर्ति प्रभेदस्य महाकालस्य साम्प्रतम्‌ ॥ 4 ॥

शनेर्मृत्युञ्जयस्तोत्रं ब्रूहि मे नेत्रजन्मनः ।
अकाल मृत्युहरणमपमृत्यु निवारणम्‌ ॥ 5 ॥

शनिमन्त्रप्रभेदा ये तैर्युक्तं यत्स्तवं शुभम्‌ ।
प्रतिनाम चथुर्यन्तं नमोन्तं मनुनायुतम्‌ ॥ 6 ॥

॥ श्रीशंकर उवाच ॥

नित्ये प्रियतमे गौरि सर्वलोक-हितेरते ।
गुह्याद्गुह्यतमं दिव्यं सर्वलोकोपकारकम्‌ ॥ 7 ॥

शनिमृत्युञ्जयस्तोत्रं प्रवक्ष्यामि तवऽधुना ।
सर्वमंगलमांगल्यं सर्वशत्रु विमर्दनम्‌ ॥ 8 ॥

सर्वरोगप्रशमनं सर्वापद्विनिवारणम्‌ ।
शरीरारोग्यकरणमायुवरिद्द्धकरं नृणाम्‌ ॥ 9 ॥

यदि भक्तासि मे गौरी गोपनीयं प्रयत्नतः ।
गोपितं सर्वतन्त्रेषु तच्छ्रणुष्व महेश्वरी ! ॥ 10 ॥

ऋषिन्यासं करन्यासं देहन्यासं समाचरेत्‌ ।
महोग्रं मूर्घ्नि विन्यस्य मुखे वैवस्वतं न्यसेत्‌ ॥ 11 ॥

गले तु विन्यसेन्मन्दं बाह्वोर्महाग्रहं न्यसेत्‌ ।
हृदि न्यसेन्महाकालं गुह्ये कृशतनुं न्यसेत्‌ ॥ 12 ॥

जान्वोम्तूडुचरं न्यस्य पादयोस्तु शनैश्चरम् ।
एवं न्यासविधि कृत्वा पश्चात्‌ कालात्मनः शनेः ॥ 13 ॥

न्यासं ध्यानं प्रवक्ष्यामि तनौ श्यार्वा पठेन्नरः ।
कल्पादियुगभेदांश्च करांगन्यासरुपिणः ॥ 14 ॥

कालात्मनो न्यसेद् गात्रे मृत्युञ्जय ! नमोऽस्तु ते ।
मन्वन्तराणि सर्वाणि महाकालस्वरुपिणः ॥ 15 ॥

भावयेत्प्रति प्रत्यंगे महाकालाय ते नमः ।
भावयेत्प्रभवाद्यब्दान्‌ शीर्षे कालजिते नमः ॥ 16 ॥

नमस्ते नित्यसेव्याय विन्यसेदयने भ्रुवोः ।
सौरये च नमस्तेऽतु गण्डयोर्विन्यसेदृतून्‌ ॥ 17 ॥

श्रावणं भावयेदक्ष्णोर्नमः कृष्णनिभाय च ।
महोग्राय नमो भार्दं तथा श्रवणयोर्न्यसेत्‌ ॥ 18 ॥

नमो वै दुर्निरीक्ष्याय चाश्विनं विन्यसेन्मुखे ।
नमो नीलमयूखाय ग्रीवायां कार्तिकं न्यसेत्‌ ॥ 19 ॥

मार्गशीर्ष न्यसेद्-बाह्वोर्महारौद्राय ते नमः ।
ऊर्द्वलोक-निवासाय पौषं तु हृदये न्यसेत्‌ ॥ 20 ॥

नमः कालप्रबोधाय माघं वै चोदरेन्यसेत्‌ ।
मन्दगाय नमो मेढ्रे न्यसेर्द्वफाल्गुनं तथा ॥ 21 ॥

ऊर्वोर्न्यसेच्चैत्रमासं नमः शिवोस्भवाय च ।
वैशाखं विन्यसेज्जान्वोर्नमः संवर्त्तकाय च ॥ 22 ॥

जंघयोर्भावयेज्ज्येष्ठं भैरवाय नमस्तथा ।
आषाढ़ं पाद्योश्चैव शनये च नमस्तथा ॥ 23 ॥

कृष्णपक्षं च क्रूराय नमः आपादमस्तके ।
न्यसेदाशीर्षपादान्ते शुक्लपक्षं ग्रहाय च ॥ 24 ॥

नयसेन्मूलं पादयोश्च ग्रहाय शनये नमः ।
नमः सर्वजिते चैव तोयं सर्वांगुलौ न्यसेत्‌ ॥ 25 ॥

न्यसेद्-गुल्फ-द्वये विश्वं नमः शुष्कतराय च ।
विष्णुभं भावयेज्जंघोभये शिष्टतमाय ते ॥ 26 ॥

जानुद्वये धनिष्ठां च न्यसेत्‌ कृष्णरुचे नमः ।
ऊरुद्वये वारुर्णांन्यसेत्कालभृते नमः ॥ 27 ॥

पूर्वभाद्रं न्यसेन्मेढ्रे जटाजूटधराय च ।
पृष्ठउत्तरभाद्रं च करालाय नमस्तथा ॥ 28 ॥

रेवतीं च न्यसेन्नाभो नमो मन्दचराय च ।
गर्भदेशे न्यसेद्दस्त्रं नमः श्यामतराय च ॥ 29 ॥

नमो भोगिस्त्रजे नित्यं यमं स्तनयुगे न्यसेत्‌ ।
न्येसत्कृत्तिकां हृदये नमस्तैलप्रियाय च ॥ 30 ॥

रोहिणीं भावयेद्धस्ते नमस्ते खड्गधारीणे ।
मृगं न्येसतद्वाम हस्ते त्रिदण्डोल्लसिताय च ॥ 31 ॥

दक्षोर्द्ध्व भावयेद्रौद्रं नमो वै बाणधारिणे ।
पुनर्वसुमूर्द्ध्व नमो वै चापधारिणे ॥ 32 ॥

तिष्यं न्यसेद्दक्षबाहौ नमस्ते हर मन्यवे ।
सार्पं न्यसेद्वामबाहौ चोग्रचापाय ते नमः ॥ 33 ॥

मघां विभावयेत्कण्ठे नमस्ते भस्मधारिणे ।
मुखे न्यसेद्-भगर्क्ष च नमः क्रूरग्रहाय च ॥ 34 ॥

भावयेद्दक्षनासायामर्यमाणश्व योगिने ।
भावयेद्वामनासायां हस्तर्क्षं धारिणे नमः ॥ 35 ॥

त्वाष्ट्रं न्यसेद्दक्षकर्णे कृसरान्न प्रियाय ते ।
स्वातीं न्येसद्वामकर्णे नमो बृह्ममयाय ते ॥ 36 ॥

विशाखां च दक्षनेत्रे नमस्ते ज्ञानदृष्टये ।
विष्कुम्भं भावयेच्छीर्षेसन्धौ कालाय ते नमः ॥ 37 ॥

प्रीतियोगं भ्रुवोः सन्धौ महामन्दं ! नमोऽस्तु ते ।
नेत्रयोः सन्धावायुष्मद्योगं भीष्माय ते नमः ॥ 38 ॥

सौभाग्यं भावयेन्नासासन्धौ फलाशनाय च ।
शोभनं भावयेत्कर्णे सन्धौ पिण्यात्मने नमः ॥ 39 ॥

नमः कृष्णयातिगण्डं हनुसन्धौ विभावयेत्‌ ।
नमो निर्मांसदेहाय सुकर्माणं शिरोधरे ॥ 40 ॥

धृतिं न्यसेद्दक्षवाहौ पृष्ठे छायासुताय च ।
तन्मूलसन्धौ शूलं च न्यसेदुग्राय ते नमः ॥ 41 ॥

तत्कूर्परे न्यसेदगण्डे नित्यानन्दाय ते नमः ।
वृद्धिं तन्मणिबन्धे च कालज्ञाय नमो न्यसेत्‌ ॥ 42 ॥

ध्रुवं तद्ङ्गुली-मूलसन्धौ कृष्णाय ते नमः ।
व्याघातं भावयेद्वामबाहुपृष्ठे कृशाय च ॥ 43 ॥

हर्षणं तन्मूलसन्धौ भुतसन्तापिने नमः ।
तत्कूर्परे न्यसेद्वज्रं सानन्दाय नमोऽस्तु ते ॥ 44 ॥

सिद्धिं तन्मणिबन्धे च न्यसेत्‌ कालाग्नये नमः ।
व्यतीपातं कराग्रेषु न्यसेत्कालकृते नमः ॥ 45 ॥

वरीयांसं दक्षपार्श्वसन्धौ कालात्मने नमः ।
परिघं भावयेद्वामपार्श्वसन्धौ नमोऽस्तु ते ॥ 46 ॥

न्यसेद्दक्षोरुसन्धौ च शिवं वै कालसाक्षिणे ।
तज्जानौ भावयेत्सिद्धिं महादेहाय ते नमः ॥ 47 ॥

साध्यं न्यसेच्च तद्-गुल्फसन्धौ घोराय ते नमः ।
न्यसेत्तदंगुलीसन्धौ शुभं रौद्राय ते नमः ॥ 48 ॥

न्यसेद्वामारुसन्धौ च शुक्लकालविदे नमः ।
ब्रह्मयोगं च तज्जानो न्यसेत्सद्योगिने नमः ॥ 49 ॥

ऐन्द्रं तद्-गुल्फसन्धौ च योगाऽधीशाय ते नमः ।
न्यसेत्तदंगुलीसन्धौ नमो भव्याय वैधृतिम्‌ ॥ 50 ॥

चर्मणि बवकरणं भावयेद्यज्वने नमः ।
बालवं भावयेद्रक्ते संहारक ! नमोऽस्तु ते ॥ 51 ॥

कौलवं भावयेदस्थ्नि नमस्ते सर्वभक्षिणे ।
तैत्तिलं भावयेन्मसि आममांसप्रियाय ते ॥ 52 ॥

गरं न्यसेद्वपायां च सर्वग्रासाय ते नमः ।
न्यसेद्वणिजं मज्जायां सर्वान्तक ! नमोऽस्तु ते ॥ 53 ॥

विर्येविभावयेद्विष्टिं नमो मन्यूग्रतेजसे ।
रुद्रमित्र ! पितृवसुवारीण्येतांश्च पञ्च च ॥ 54 ॥

मुहूर्तांश्च दक्षपादनखेषु भावयेन्नमः ।
खगेशाय च खस्थाय खेचराय स्वरुपिणे ॥ 55 ॥

पुरुहूतशतमखे विश्ववेधो-विधूंस्तथा ।
मुहूर्तांश्च वामपादनखेषु भावयेन्नमः ॥ 56 ॥

सत्यव्रताय सत्याय नित्यसत्याय ते नमः ।
सिद्धेश्वर ! नमस्तुभ्यं योगेश्वर ! नमोऽस्तु ते ॥ 57 ॥

वह्निनक्तंचरांश्चैव वरुणार्यमयोनकान्‌ ।
मुहूर्तांश्च दक्षहस्तनखेषु भावयेन्नमः ॥ 58 ॥

लग्नोदयाय दीर्घाय मार्गिणे दक्षदृष्टये ।
वक्राय चातिक्रूराय नमस्ते वामदृष्टये ॥ 59 ॥

वामहस्तनखेष्वन्त्यवर्णेशाय नमोऽस्तु ते ।
गिरिशाहिर्बुध्न्यपूषाजपष्द्दस्त्रांश्च भावयेत्‌ ॥ 60 ॥

राशिभोक्त्रे राशिगाय राशिभ्रमणकारिणे ।
राशिनाथाय राशीनां फलदात्रे नमोऽस्तु ते ॥ 61 ॥

यमाग्नि-चन्द्रादितिजविधातृंश्च विभावयेत्‌ ।
ऊर्द्ध्व-हस्त-दक्षनखेष्वत्यकालाय ते नमः ॥ 62 ॥

तुलोच्चस्थाय सौम्याय नक्रकुम्भगृहाय च ।
समीरत्वष्टजीवांश्च विष्णु तिग्म द्युतीन्नयसेत्‌ ॥ 63 ॥

ऊर्ध्व-वामहस्त-नखेष्वन्यग्रह निवारिणे ।
तुष्टाय च वरिष्ठाय नमो राहुसखाय च ॥ 64 ॥

रविवारं ललाटे च न्यसेद्-भीमदृशे नमः ।
सोमवारं न्यसेदास्ये नमो मृतप्रियाय च ॥ 65 ॥

भौमवारं न्यसेत्स्वान्ते नमो ब्रह्म-स्वरुपिणे ।
मेढ्रं न्यसेत्सौम्यवारं नमो जीव-स्वरुपिणे ॥ 66 ॥

वृषणे गुरुवारं च नमो मन्त्र-स्वरुपिणे ।
भृगुवारं मलद्वारे नमः प्रलयकारिणे ॥ 67 ॥

पादयोः शनिवारं च निर्मांसाय नमोऽस्तु ते ।
घटिका न्यसेत्केशेषु नमस्ते सूक्ष्मरुपिणे ॥ 68 ॥

कालरुपिन्नमस्तेऽस्तु सर्वपापप्रणाशकः ।
त्रिपुरस्य वधार्थांय शम्भुजाताय ते नमः ॥ 69 ॥

नमः कालशरीराय कालनुन्नाय ते नमः ।
कालहेतो ! नमस्तुभ्यं कालनन्दाय वै नमः ॥ 70 ॥

अखण्डदण्डमानाय त्वनाद्यन्ताय वै नमः ।
कालदेवाय कालाय कालकालाय ते नमः ॥ 71 ॥

निमेषादिमहाकल्पकालरुपं च भैरवम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥ 72 ॥

दातारं सर्वभव्यानां भक्तानामभयंकरम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥ 73 ॥

कर्त्तारं सर्वदुःखानां दुष्टानां भयवर्धनम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥ 74 ॥

हर्त्तारं ग्रहजातानां फलानामघकारिणाम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥ 75 ॥

सर्वेषामेव भूतानां सुखदं शान्तमव्ययम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥ 76 ॥

कारणं सुखदुःखानां भावाऽभाव-स्वरुपिणम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥ 77 ॥

अकाल-मृत्यु-हरणऽमपमृत्यु निवारणम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥ 78 ॥

कालरुपेण संसार भक्षयन्तं महाग्रहम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥ 79 ॥

दुर्निरीक्ष्यं स्थूलरोमं भीषणं दीर्घ-लोचनम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥ 80 ॥

ग्रहाणां ग्रहभूतं च सर्वग्रह-निवारणम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥ 81 ॥

कालस्य वशगाः सर्वे न कालः कस्यचिद्वशः ।
तस्मात्त्वां कालपुरुषं प्रणतोऽस्मि शनैश्चरम्‌ ॥ 82 ॥

कालदेव जगत्सर्वं काल एव विलीयते ।
कालरुपं स्वयं शम्भुः कालात्मा ग्रहदेवता ॥ 83 ॥

चण्डीशो रुद्रडाकिन्याक्रान्तश्चण्डीश उच्यते ।
विद्युदाकलितो नद्यां समारुढो रसाधिपः ॥ 84 ॥

चण्डीशः शुकसंयुक्तो जिह्वया ललितः पुनः ।
क्षतजस्तामसी शोभी स्थिरात्मा विद्युता युतः ॥ 85 ॥

नमोऽन्तो मनुरित्येष शनितुष्टिकरः शिवे ।
आद्यन्तेऽष्टोत्तरशतं मनुमेनं जपेन्नरः ॥ 86 ॥

यः पठेच्छ्रणुयाद्वापि ध्यात्त्वा सम्पूज्य भक्तितः ।
त्रस्य मृत्योर्भयं नैव शतवर्षावधिप्रिये ॥ 87 ॥

ज्वराः सर्वे विनश्यन्ति दद्रु-विस्फोटकच्छुकाः ।
दिवा सौरिं स्मरेत्‌ रात्रौ महाकालं यजन्‌ पठेत ॥ 88 ॥

जन्मर्क्षे च यदा सौरिर्जपेदेतत्सहस्त्रकम्‌ ।
वेधगे वामवेधे वा जपेदर्द्धसहस्त्रकम्‌ ॥ 89 ॥

द्वितीये द्वादशे मन्दे तनौ वा चाष्टमेऽपि वा ।
तत्तद्राशौ भवेद्यावत्‌ पठेत्तावद्दिनावधि ॥ 90 ॥

चतुर्थे दशमे वाऽपि सप्तमे नवपञ्चमे ।
गोचरे जन्मलग्नेशे दशास्वन्तर्दशासु च ॥ 91 ॥

गुरुलाघवज्ञानेन पठेदावृत्तिसंख्यया ।
शतमेकं त्रयं वाथ शतयुग्मं कदाचन ॥ 92 ॥

आपदस्तस्य नश्यन्ति पापानि च जयं भवेत्‌ ।
महाकालालये पीठे ह्यथवा जलसन्निधौ ॥ 93 ॥

पुण्यक्षेत्रेऽश्वत्थमूले तैलकुम्भाग्रतो गृहे ।
नियमेनैकभक्तेन ब्रह्मचर्येण मौनिना ॥ 94 ॥

श्रोतव्यं पठितव्यं च साधकानां सुखावहम्‌ ।
परं स्वस्त्ययनं पुण्यं स्तोत्रं मृत्युञ्जयाभिधम्‌ ॥ 95 ॥

कालक्रमेण कथितं न्यासक्रम समन्वितम्‌ ।
प्रातःकाले शुचिर्भूत्वा पूजायां च निशामुखे ॥ 96 ॥

पठतां नैव दुष्टेभ्यो व्याघ्रसर्पादितो भयम्‌ ।
नाग्नितो न जलाद्वायोर्देशे देशान्तरेऽथवा ॥ 97 ॥

नाऽकाले मरणं तेषां नाऽपमृत्युभयं भवेत्‌ ।
आयुर्वर्षशतं साग्रं भवन्ति चिरजीविनः ॥ 98 ॥

नाऽतः परतरं स्तोत्रं शनितुष्टिकरं महत्‌ ।
शान्तिकं शीघ्रफलदं स्तोत्रमेतन्मयोदितम्‌ ॥ 99 ॥

तस्मात्सर्वप्रयत्नेन यदीच्छेदात्मनो हितम्‌ ।
कथनीयं महादेवि ! नैवाभक्तस्य कस्यचित्‌ ॥ 100 ॥

॥ इति मार्तण्ड-भैरव-तन्त्रे महाकाल-शनि-मृत्युञ्जय-स्तोत्र सम्पूर्णम्‌ ॥

महत्व और लाभ:

  • अकाल मृत्यु से रक्षा करता है
  • शारीरिक और मानसिक पीड़ाओं का नाश करता है
  • शनि की दशा, साढ़ेसाती या ढैय्या में शांति प्रदान करता है
  • रोग, दरिद्रता, बाधा, और शत्रु बाधा से मुक्ति मिलती है
  • जीवन में धन, संतान सुख, परिवारिक शांति और विजय का आशीर्वाद मिलता है

पाठ विधि:

  1. प्रातः स्नान कर शुद्ध वस्त्र पहनें
  2. शांत स्थान पर बैठकर दीपक जलाएं
  3. भगवान शिव व शनि देव का ध्यान करें
  4. स्तोत्र का पाठ श्रद्धापूर्वक करें (11, 21 या 108 बार)
  5. शनिवार को विशेष रूप से इसका जाप अत्यधिक फलदायी माना जाता है
  6. यदि संभव हो तो ब्राह्मण भोजन कराएं या दान करें

जाप का सर्वोत्तम समय:

  • शनिवार के दिन सूर्योदय से पहले या सूर्यास्त के समय
  • अमावस्या, शनि जयंती, या शनि प्रदोष व्रत के दिन
  • संकट या भारी ग्रहदोष की स्थिति में नित्य जाप करें
Please follow and like us:
error2
fb-share-icon20
Tweet 20

Oh hi there 👋 It’s nice to meet you.

Sign up to receive awesome content in your inbox, every month.

Tourist places

Panchdeheriya Mahadev Mandir, Agar Malwa

Nestled in the lap of the Vindhya mountain ranges lies a divine shrine where the tranquility of nature blends with...
Read More
Tourist places

Chausath Yogini Mata Temple, Agar Malwa – Mysticism, Legends, and Spiritual Energy

Introduction – An Open Sky and a Circle of Goddesses The Chausth Yogini Temple in Agar Malwa is one of...
Read More
Tourist places

Badi Mata Pacheti Temple: A Spiritual Treasure of Agar-Malwa

In Agar-Malwa district of Madhya Pradesh, there is a temple where the devotion of the devotees and the blessings of...
Read More
Tourist places

Maa Tulja Bhavani Mandir, Agar Malwa

In the Malwa region of Madhya Pradesh, near Agar-Malwa district, lies an ancient temple — Maa Tulja Bhavani Mandir. This...
Read More
Tourist places

Kewda Swami Bhairavnath Temple, Agar Malwa (Madhya Pradesh)

Kewda Swami Bhairavnath Temple is an ancient and famous temple located in the Agar-Malwa district of Madhya Pradesh. The temple...
Read More
Katni tourist places Tourist places

Nandchand Shiva Temple, Rithi – Katni: A Unique Blend of Devotion and Ancient Heritage

Located a few kilometers away from Rithi in Katni district, Madhya Pradesh, the Nandchand Shiva Temple beautifully combines devotion and...
Read More
Tourist places

Nohleshwar Mahadev Temple, Nohta – A Living Example of History, Culture, and Architecture

Located in the small village of Nohta in Jabera Tehsil of Damoh district, Madhya Pradesh, Nohleshwar Mahadev Temple is not...
Read More
Tourist places Uncategorized

Nohata Jain Temple – A Confluence of Faith, History and Miracles

Shri Digambar Jain Atishay Kshetra, Adishwargiri (Nohata), located in Jabera tehsil of Damoh district, Madhya Pradesh, is not only a...
Read More
1 2 3 12

डिस्क्लेमर (अस्वीकरण): ये खबर लोक मान्यताओं पर आधारित है। इस खबर में शामिल सूचना और तथ्यों की सटीकता, संपूर्णता के लिए https://newandolder.com/ उत्तरदायी नहीं है।

Disclaimer: This news is based on public beliefs. https://newandolder.com/ is not responsible for the accuracy, completeness of the information and facts included in this news.