Categories
Chalisa

पार्श्वनाथ सहस्रनाम स्तोत्रं (Parshvanatha Sahasranama Stotram)

हिंदी में पढ़ने के लिए यहाँ क्लिक करें.

पार्श्वनाथ सहस्रनाम स्तोत्र एक अत्यन्त पवित्र स्तोत्र है जिसमें भगवान पार्श्वनाथ — जैन धर्म के 23वें तीर्थंकर — के कुल 1008 दिव्य नामों का स्तवन किया गया है। यह स्तोत्र भक्त को आध्यात्मिक शांति, मानसिक संतुलन, एवं सद्गुण विकास की प्राप्ति का मार्ग दिखाता है ।

इस स्तोत्र के नियमित पाठ से:

  • सद्गुणों का विकास होता है,
  • व्यक्ति का कर्म अच्छा बनता है, और
  • मन को दीर्घकालीन शांति मिलती है ।

पार्श्वनाथ सहस्रनाम स्तोत्रं (Parshvanatha Sahasranama Stotram)

॥ श्रीसरस्वत्यै नमः ॥

पार्श्वनाथो जिनः श्रीमान् स्याद्वादी पार्श्वनायकः ।
शिवतातिर्जनत्राता दद्यान्मे सौख्यमन्वहम् ॥ १ ॥

नमस्यन्ति नराः सर्वे शीर्षेण भक्तिभासुराः ।
पापस्तोममपाकर्तुं तं पार्श्वं नौमि सर्वदम् ॥ २ ॥

यथार्थवादिना येनोन्मूलिताः क्लेशपादपाः ।
तेनानुभूयते ऋद्धिधीमता सूक्ष्मदर्शिना ॥ ३ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

शम्भवे पार्श्वनाथाय श्रीमते परमात्मने ।
नमः श्रीवर्द्धमानाय विश्वव्याधिहराय वै ॥ ४ ॥

दर्वीकरः शुभध्यानाद्धरणेन्द्रमवाप सः ।
यस्मात् परमतत्त्वज्ञात् सुपार्श्वाल्लोकलोचनात् ॥ ५ ॥

प्रतिपूर्णं ध्रुवं ज्ञानं निरावरणमुत्तमम् ।
विद्यते यस्य पार्श्वस्य निखिलार्थावभासकम् ॥ ६ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

यस्मिनतीन्द्रिये सौख्यमनन्तं वर्तते खलु ।
स श्रद्धेयः स चाराध्यो ध्येयः सैव निरन्तरम् ॥ ७ ॥

सप्तविभक्तीनां श्लोकाः ।
तव स्तोत्रेण कुर्वे स्वां जिह्वां दोषशताकुलाम् ।
पूतामिदं भवारण्ये जन्तूतां जन्मनः फलम् ॥ ८ ॥

वरदाय नमस्तुभ्यं नमः क्षीणाष्टकर्मणे ।
सारदाय नमस्तुभ्यं नमोऽभीष्टार्थदायिने ॥ ९ ॥

शङ्कराय नमस्तुभ्यं नमो यथार्थदर्शिने ।
विपद्धर्त्रे नमस्तुभ्यं नमो विश्वार्त्तिहारिणे ॥ १० ॥

धर्ममूर्त्ते नमस्तुभ्यं जगदानन्ददायिने ।
जगद्भर्त्रे नमस्तेऽपि नमः सकलदर्शिने ॥ ११ ॥

सर्वज्ञाय नमस्तुभ्यं नमो बन्धुरतेजसे ।
श्रीकराय नमस्तुभ्यमनन्तज्ञानिने नमः ॥ १२ ॥

नाथ ! त्वच्चरणाम्भोजसेवारसिकतत्पराः ।
विलसन्ति श्रियं भव्याः सदोदया महीतले ॥ १३ ॥

इन्द्रा अपि गुणान् वक्तुं पारं यस्य ययुर्नहि ।
असङ्ख्येयाननल्पाश्च क्षमस्तर्हि कथं नरः ॥ १४ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

तथापि ज्ञानमुग्धोऽहं भक्तिप्रेरितमानसः ।
नाम्नामष्टसहस्रेण त्वां स्तुवे सौख्यदायकम् ॥ १५ ॥

इति श्रीपार्श्वनाथनामावल्यां स्तुतिप्रस्तावना ॥

॥ अथ सहस्रनामस्तोत्रम् ॥

अर्हन् क्षमाधरः स्वामी क्षान्तिमान् क्षान्तिरक्षकः ।
अरिञ्जयः क्षमाधारः शुभंयुरचलस्थितिः ॥ १ ॥

लाभकर्ता भयत्राता च्छद्मापेतो जिनोत्तमः ।
लक्ष्मणो निश्चलोऽजन्मा देवेन्द्रो देवसेवितः ॥ २ ॥

धर्मनाथो मनोज्ञाङ्गो धर्मिष्टो धर्मदेशकः ।
धर्मराजः परातज्ञो धर्मज्ञो धर्मतीर्थकृत् ॥ ३ ॥

सद्धेर्याल्पितहंसाद्रिस्तत्रभवान् नरोत्तमः ।
धार्मिको धर्मधौरेयो धृतिमान् धर्मनायकः ॥ ४ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

धर्मपालः क्षमासद्मा(द्म) धर्मसारथिरीश्वरः ।
धर्माध्यक्षो नराधीशो धर्मात्मा धर्मदायकः ॥ ५ ॥

धर्मवान् धर्मसेनानीरचिन्त्यो धीरधीरजः ।
धर्मघोषः प्रकाशात्मा धर्मी धर्मप्ररूपकः ॥ ६ ॥

बहुश्रुतो बहुबुद्धिर्धर्मार्थी धर्मविज्जिनः ।
देवः सनातनोऽसङ्गोऽनल्पकान्तिर्मनोहरः ॥ ७ ॥

श्रीमान् पापहरो नाथोऽनीश्वरोऽबन्धनोऽरजाः ।
अचिन्त्यात्माऽनघो वीरोऽपुनर्भवो भवोज्झितः ॥ ८ ॥

स्वयम्भूः शङ्करो भूष्णुरनुत्तरो जिनोत्तमः ।
वृषभः सौख्यदोऽस्वप्नोऽनन्तज्ञानी नरार्चितः ॥ ९ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

आत्मज्ञो विश्वविद् भव्योऽनन्तदर्शी जिनाधिपः ।
विश्वव्यापी जगत्पालो विक्रमी वीर्यवान् परः ॥ १० ॥

विश्वबन्धुरमेयात्मा विश्वेश्वरो जगत्पतिः ।
विश्वेनो विश्वपो विद्वान् विश्वनाथो विभुः प्रभुः ॥ ११ ॥

अर्हत् शतम् ॥ १०० ॥

वीतरागः प्रशान्तारिरजरो विश्वनायकः ।
विश्वाद्भुतो निःसपत्नो विकाशी विश्वविश्रुतः ॥ १ ॥

विरक्तो विबुधैः सेव्यो वैरङ्गिको विरागवान् ।
प्रतीक्ष्यो विमलो धीरो विश्वेशो वीतमत्सरः ॥ २ ॥

विकस्वरो जनश्रेष्ठोऽरिष्टतातिः शिवङ्करः ।
विश्वदृश्वा सदाभावी विश्वगो विशदाशयः ॥ ३ ॥

विशिष्टो विश्वविख्यातो विचक्षणो विशारदः ।
विपक्षवर्जितोऽकामो विश्वेड् विश्वैकवत्सलः ॥ ४ ॥

विजयी जनताबन्धुर्विद्यादाता सदोदयः ।
शान्तिदः शास्रविच्छम्भुः शान्तो दान्तो जितेन्द्रियः ॥ ५ ॥

वर्द्धमानो गतातङ्कने विनायकोज्झितोऽक्षरः ।
अलक्ष्योऽभीष्टदोऽकोपोऽनन्तजित् वदतां वरः ॥ ६ ॥

विमुक्तो विशदोऽमूर्तो विज्ञो विशाल अक्षयः ।
अमूर्तात्माऽव्ययो धीमान् तत्त्वज्ञो गतकल्मुषः ॥ ७ ॥

शान्तात्मा शाश्वतो नित्यस्रिकालज्ञस्रिकालवित् ।
त्रैलोक्यपूजितोऽव्यक्तो व्यक्तवाक्यो विदां वरः ॥ ८ ॥

सर्वज्ञः सत्यवाक् सिद्धः सोममूर्तिः प्रकाशकृत् ।
सिद्धात्मा सर्वदेवेशोऽजय्योऽमेयर्द्धिरस्मरः ॥ ९ ॥

क्षमायुक्तः क्षमाचञ्चुः क्षमी साक्षी पुरातनः ।
परमात्मा परत्राता पुराणः परमद्युतिः ॥ १० ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

पवित्रः परमानन्दः पूतवाक् परमेश्वरः ।
पूतोऽजेयः परञ्ज्योतिरनीहो वरदोऽरहाः ॥ ११ ॥

वीतरागशतम् ॥ २०० ॥

तीर्थङ्करस्ततश्लोकस्तीर्थेशस्तीर्थमण्डनः ।
तत्त्वमूर्त्तिसङ्ख्येयस्तीर्थकृत् तीर्थनायकः ॥ १ ॥

वीतदम्भः प्रसन्नात्मा तारकस्तीर्थलोचनः ।
तीर्थेन्द्रस्त्वागवान् त्यागी तत्त्ववित् त्यक्तसंसूतिः ॥ २ ॥

तमोहर्ता जितद्वेषस्तीर्थाधीशो जगत्प्रियः ।
तीर्थपस्तीर्णसंसारस्तापहृत् तारलोचनः ॥ ३ ॥

तत्त्वात्मा ज्ञानवित् श्रेष्ठो जगन्नाथो जगद्विभुः ।
जगज्जैत्रो जगत्कर्ता जगज्ज्येष्ठो जगद्गुरु: ॥ ४ ॥

जगद्धयेयो जगद्वन्द्यो ज्योतिमा(ष्मा) ) न् जगतः पतिः ॥ ५ ॥

जितमोहो जितानङ्गो जितनिद्रो जितक्षयः ।
जितवैरो जितक्लेशो जगद्ग्रैवेयकः शिवः ॥ ६ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

जनपालो जितक्रोधो जनस्वामी जनेशिता ।
जगत्त्रयमनोहारी जगदानन्ददायकः ॥ ७ ॥

जितमानो जिताऽऽकल्पो जनेशो जगदग्रगः ।
जगत्बन्धुर्जगत्स्वामी जनेड् जगत्पितामहः ॥ ८ ॥

जिष्णुर्जयी जगद्रक्षो विश्वदर्शी जितामयः ।
जितलोभो जितस्नेहो जगच्चन्द्रो जगद्रविः ॥ ९ ॥

नृमनोजवसः शक्तो जिनेन्द्रो जनतारकः ।
अलङ्करिष्णुरद्वेष्यो जगत्त्रयविशेषकः ॥ १० ॥

जनरक्षाकरः कर्ता जगच्चूडामणिर्वरः ।
ज्यायान् जितयथाजातो जाड्यापहो जगत्प्रभुः ॥ ११ ॥

जन्तुसौख्यकरो जन्मजरामरणवर्जितः ।
जन्तुसेव्यो जगद्व्याप्तो ज्वलत्तेजा अकल्कनः ॥ १२ ॥

जितसर्वो जनाधारस्तीर्थराट् तीर्थदेशकः ।
नरपूज्यो नरमान्यो लडानलघनाघनः ॥ १३ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

तीर्थशतम् ॥ ३०० ॥

देवदेवः स्थिरः स्थास्नुः स्थेष्टः स्थेयो दयापरः ।
स्थावरो दानवान् दाता दयायुक्तो दयानिधिः ॥ १ ॥

दमितारिर्दयाधामा दयालुर्दानतत्परः ।
स्थविष्टो जनताधारः स्थवीयान् देवतल्लजः ॥ २ ॥

स्थेयान् सूक्ष्मविचारज्ञो दुःस्थहर्ता दयाचणः ।
दयागर्भो दयापूतो देवार्च्यो देवसत्तमः ॥ ३ ॥

दीप्तो दानप्रदो दिव्यो दुन्दुभिध्वनिरुत्तमः ।
दिव्यभाषापतिश्चारुर्दमी देवमतल्लिकः ॥ ४ ॥

दान्तात्मा देवसेव्योऽपि दिव्यमूर्तिर्दयाध्वजः ।
दक्षो दयाकरः कम्रो दानाल्पितसुरद्रुमः ॥ ५ ॥

दुःखहरो दयाचञ्चुर्दलितोत्कटकल्मुषः ।
दृढधर्मा दृढाचारो दृढव्रतो दमेश्वरः ॥ ६ ॥

दृढशीलो दृढपुण्यो दृ(द्र) ढीयत् दमितेन्द्रियः
दृढक्रियो दृढधैर्यो दाक्षिण्यो दृढसंयमः ॥ ७ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

देवप्रष्टो दयाश्रेष्ठो व्यतीताशेषबन्धनः ।
शरण्यो दानशौण्डीरो दारिद्र्यच्छेदकः सुधीः ॥ ८ ॥

दयाध्यक्षो दुराधर्षो धर्मदायकतत्परः ।
धन्यः पुण्यमयः कान्तो धर्माधिकरणी सहः ॥ ९ ॥

निःकलङ्को निराधारो निर्मलो निर्मलाशयः ।
निरामयो निरातङ्गो निर्जरो निर्जरार्चितः ॥ १० ॥

निराशंसो निराकाङ्क्षो निर्विघ्नो भीतिवर्जितः ।
निरामो निर्ममः सौम्यो निरञ्जनो निरुत्तरः ॥ ११ ॥

निर्ग्रन्थो निःक्रियः सत्यो निस्सङ्गो निर्भयोऽचलः ।
निर्विकल्पो निरस्तांहो निराबाधो निराश्रवः ॥ १२ ॥

देवशतम् ॥ ४०० ॥

आत्मभूः शम्भवो विष्णुः केशवः स्थविरोऽच्युतः ।
परमेष्ठी विधिर्धाता श्रीपतिर्नागल(ला) च्छनः ॥ १ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

शतधृतिः शतानन्दः श्रीवत्सोऽधोक्षजो हरिः ।
विश्वम्भरो हरिस्वामी सर्पेशो विष्टरश्रवाः ॥ २ ॥

सुरज्येष्ठश्चतुर्वक्त्रो गोविन्दः पुरुषोत्तमः ।
अष्टकर्णश्चतुरास्यश्चतुर्भुजः स्वभूः कविः ॥ ३ ॥

सात्त्विकः कमनो वेधास्रिविक्रमो कुमोदकः ।
लक्ष्मीवान् श्रीधरः स्रष्टा लब्धवर्णः प्रजापतिः ॥ ४ ॥

ध्रुवः सूरिरविज्ञेयः कारुण्योऽमितशासनः ।
दोषज्ञः कुशलोऽभिज्ञः सुकृती मित्रवत्सलः ॥ ५ ॥

प्रवीणो निपुणो बुद्धो विदग्धः प्रतिभान्वितः ।
जनानन्दकरः श्रान्तः प्राज्ञो वैज्ञानिकः पटुः ॥ ६ ॥

धर्मचक्री कृती व्यक्तो हृदयालुर्वदावदः ।
वाचोयुक्तिपटुर्वक्ता वागीशः पूतशासनः ॥ ७ ॥

वेदिता परमः पूज्यः परब्रह्मप्रदेशकः ।
प्रशमात्मा परादित्यः प्रशान्तः प्रशमाकरः ॥ ८ ॥

धनीश्वरो यथाकामी स्फारधीर्निरवग्रहः ।
स्वतन्त्रः स्फारश‍ृङ्गारः पद्मेशः स्फारभूषणः ॥ ९ ॥

स्फारनेत्रः सदातृप्तः स्फारमूर्तिः प्रियंवदः ।
आत्मदर्शी सदावन्द्यो बलिष्टो बोधिदायकः ॥ १० ॥

बुद्धात्मा भाग्यसंयुक्तो भयोज्झितो भवान्तकः ।
भूतनाथो भयातीतो बोधिदो भवपारगः ॥ ११ ॥

आत्मशतम् ॥ ५०० ॥

महादेवो महासाधुर्महान् भुनीन्द्रसेवितः ।
महाकीर्तिर्महाशक्तिमहावीर्यो महायतिः ॥ १ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

महाव्रतो महाराजो महामित्रो महामतिः ।
महेश्वरो महाभिक्षुर्मुनीन्द्रो भाग्यभाक् शमी ॥ २ ॥

महाधृतिर्महाकान्तिर्महातपा महाप्रभुः ।
महागुणो महाश्लीलो महाजिनो महापतिः ॥ ३ ॥

महामहा महाश्लोको महाबुद्धिर्महोदयः ।
महानन्दो महाधीरो महानाथो महाबलः ॥ ४ ॥

महावीरो महाधर्मा महानेता महायशाः ।
महासूनुर्महास्वामी महेशः परमोदयः ॥ ५ ॥

महाक्षमो महाभाग्यो महोदर्को महाशयः ।
महाप्राज्ञो महाचेता महाप्रभो महेशिता ॥ ६ ॥

महासत्त्वो महाशते महाशास्रो महर्द्धिकः ।
महाबोधिर्महाधीशो महामिश्रो महाक्रियः ॥ ७ ॥

महाबन्दुर्महायोगी महात्मा महसाम्पतिः ।
महालब्धिर्महापुण्यो महावाक्यो महाद्युतिः ॥ ८ ॥

महालक्ष्यीर्महाचारो महाज्द्योतिर्महाश्रुतः ।
महामना महामूर्त्तिर्महेभ्यः सुन्दरो वशी ॥ ९ ॥

महाशीलो महाविद्यो महाप्तो हि महाविभुः ।
महाज्ञानो महाध्यानो महोद्यमो महोत्तमः ॥ १० ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

महासौख्यो महाध्येयो महागतिर्महानरः ।
महातोषो महाधैर्यो महेन्द्रो महिमालयः ॥ ११ ॥

महासुहृन्महासख्यो महातनुर्महाधिभूः ।
योगात्मा योगवित् योगी शास्ता यमी यमान्तकृत् ॥ १२ ॥

महाशतम् ॥ ६०० ॥

हर्षदः पुण्यदस्तुष्टः सन्तोषी सुमतिः पतिः ।
सहिष्णुः पुष्ट(ष्टि) दः पुष्टः सर्वंसहः सदाभवः ॥ १ ॥

सर्वकारणिकः शिष्टो लग्नकः सारदोऽमलः ।
हतकर्मा हतव्याधिर्हतात्तिर्हतदुर्गतिः ॥ २ ॥

पुण्यवान् मित्रयुर्मेध्यः प्रतिभूर्धर्ममन्दिरः ।
यशस्वी सुभगः शुभ्रस्त्रिगुप्तो हतदुर्भगः ॥ ३ ॥

हृषीकेशोऽप्रतर्क्यात्माऽनन्तदृष्टिरतीन्द्रियः ।
शिवतातिरचिन्त्यर्द्धिरलेपो मोक्षदायकः ॥ ४ ॥

हतदुःखो हतानङ्गो हतक्लेशकदम्बकः।
संयमी सुखरोऽद्विष्टः पराद्धर्यो हतपातकः ॥ ५ ॥

शेभुखीशः सुप्रसन्नः क्षेमङ्करो दयालयः ।
स्तवनार्हो विरागार्हस्तपस्वी हर्षसंयुतः ॥ ६ ॥

अचलात्माऽखिलज्योतिः शान्तिमानरिमर्दनः ।
अरिघ्नोऽपुनरावृत्तिररिहर्ताऽरिभञ्जकः ॥ ७ ॥

अरोषणोऽप्रमेयात्माऽध्यात्मगम्यो यतीश्वरः ।
अनाधारो यमोपेतः प्रभास्वरः स्वयम्प्रभः ॥ ८ ॥

अर्चितो रतिमानाप्तो रमाकरो रमाप्रदः ।
अनीर्ष्यालुरशोकोऽग्र्योऽवद्यभिन्नविश्वरः ॥ ९ ॥

अनिघ्नोऽकिञ्चनः स्तुत्यः सज्जनोपासितक्रमः ।
अव्याबाधः प्रभूतात्मा पारगतः स्तुतीश्वरः ॥ १० ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

योगिनाथः सदामोदः सदाध्येयोऽभिवादकः ।
सदामिश्रः सदाहर्षः सदासौख्यः सदाशिवः ॥ ११ ॥

हर्षशतम् ॥ ७०० ॥

ज्ञानगर्भो गणश्रेष्ठो ज्ञानयुक्तो गुणाकरः ।
ज्ञानचञ्चुर्गतस्तेशो गुणवान् गुणसागरः ॥ १ ॥

ज्ञानदो ज्ञानविख्यातो ज्ञानात्मा गूढगोचरः ।
ज्ञानसिद्धिकरो ज्ञानी ज्ञानज्ञो ज्ञाननायकः ॥ २ ॥

ज्ञानाऽमित्रहरो गोप्ता गूढात्मा ज्ञानभूषितः ।
ज्ञानतत्त्वो गुणग्रामो गतशत्रुर्गतातुरः ॥ ३ ॥

ज्ञानोत्तमो गताशङ्को गम्भीरो गुणमन्दिरः ।
ज्ञातज्ञेयो गदापेतो ज्ञानत्रितयसाधकः ॥ ४ ॥

ज्ञानाब्धिः गीर्पतिः स्वस्थो ज्ञानभाक् ज्ञानसर्वगः ।
ज्ञातगोत्रो गतशोच्यः सद्गुणरत्नरोहणः ॥ ५ ॥

ज्ञानोत्कृष्टो गतद्वेषो गरिष्ठगीः गिरां पतिः ।
गणाग्रणीर्गुणज्येष्ठो गरीयान् गुणमनोहरः ॥ ६ ॥

गुणज्ञो ज्ञातवृत्तान्तो गुरुर्ज्ञानप्रकाशकः ।
विश्वचञ्चुर्गताकल्पो गरिष्ठो गुणपेटकः ॥ ७ ॥

गम्भीरधीर्गुणाधारो गुणखानिर्गुणालयः ।
ज्ञाताभिधो गताकाङ्क्षो ज्ञानपतिर्गतस्तुहः ॥ ८ ॥

गुणी ज्ञातरहःकर्मा क्षेमी ज्ञानविचक्षणः ।
गणेशो ज्ञातसिद्धान्तो गतकष्टो गभीरवाक् ॥ ९ ॥

गतगत्यागतिर्गुण्यो गीर्वाणवाक् पुरोगमः ।
गीर्वाणेन्द्रो गतग्लास्नुर्गतमोहो दरोज्झितः ॥ १० ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

गीर्वाणपूजितो वन्द्योऽन(नि) न्द्यो गीर्वाणसेवितः ।
स्वेदज्ञो गतसंसारो गीर्वाणराट् पुरःसरः ॥ ११ ॥

घातिकर्मविनिर्मुक्तो खेदहर्ता घनध्वनिः ।
घनयोगो घनज्ञानो घनदो घनरागहृत् ॥ १२ ॥

उत्तमात्मा गताबाधो घनबोधसमन्वितः ।
घनधर्मा घनश्रेयो गीर्वाणेन्द्रशिरोमणिः ॥ १३ ॥

ज्ञानशतम् ॥ ८०० ॥

ऐश्वर्यमण्डितः कृष्णो मुमुक्षुर्लोकनायकः ।
लोकेशः पुण्डरीकाक्षो लोकेड् लोकपुरन्दरः ॥ १ ॥

लोकार्को लोकराट् सार्वो लोकेशो लोकवल्लभः ।
लोकज्ञो लोकमन्दारो लोकेन्द्रो लोककुञ्जरः ॥ २ ॥

लोकार्च्यो लोकशौण्डीरो लोकविल्लोकसंस्तुतः ।
लोकेनो लोकधौरेयो लोकाग्र्यो लोकरक्षकः ॥ ३ ॥

लोकानन्दप्रदः स्थाणुः श्रमणो लोकपालकः ।
ऐश्वर्यशोभितो बभ्रुः श्रीकण्ठो लोकपूजितः ॥ ४ ॥

अमृतात्मोत्तमाध्यान ईशानो लोकसेवितः ।
ऐश्वर्यकारको लोकविख्यातो लोकधारकः ॥ ५ ॥

मृत्युञ्जयो नरध्येयो लोकबन्धुर्नरेशिता ।
लोकचन्द्रो नराधारो लोकचक्षुरनीश्वरः ॥ ६ ॥

लोकप्रेष्ठो नरव्याप्तो लोकसिंहो नराधिभूः ।
लोकनागो नरख्यातो लोभभिल्लोकवत्सलः ॥ ७ ॥

वामदेवो नरज्यायान् लोकभर्ता नराग्रगः ।
लोकविभुर्नरदृश्वा लोकपो लोकभास्करः ॥ ८ ॥

लोकदर्शी नरज्येष्ठो लोकवन्द्यो नराधिपः ।
लोकशास्ता नरव्याधिहर्ता लोकविभावकः ॥ ९ ॥

सुमेधा लोकबर्हिष्टः सत्याशीर्लोकवन्दितः ।
ऋद्धिकर्ता नरस्वामी ऋद्धिमान् लोकदेशकः ॥ १० ॥

प्रमाणं प्रणवः काम्य इ(ई) शितोत्तमसंवरः ।
इभ्य उत्तमसंवेग इन उत्तमपूरुषः ॥ ११ ॥

स्तुत्द्या(त्य) र्ह उत्तमासेव्योऽदभ्रतेजा अहीश्वरः ।
उत्तमाख्यः सुगुप्तात्मा मन्ता तज्ञः परिवृढः ॥ १२ ॥

लोलुपध्नो निरस्तैनाः सुव्रतो व्रतपालकः ।
अश्वसेनकुलाधारो नीलवर्णविराजितः ॥ १३ ॥

ऐश्वर्यशतम् ॥ ९०० ॥

कल्याणभाग् भुनिश्रेष्ठश्चतुर्धा मर्त्यसेवितः ।
काम्यदः कर्मशत्रुघ्नः कल्याणात्मा कलाधरः ॥ १ ॥

कर्मठः केवली कर्मकाष्टाग्निः करुणापरः ।
चक्षुष्यश्चतुरः कर्ममुक्तः कल्याणमन्दिरः ॥ २ ॥

क्रियादक्ष क्रियानिष्ठः क्रियावान् कामितप्रदः ।
कृपाचणः कृपाचञ्चुः कीर्तिदः कपटोज्झितः ॥ ३ ॥

चन्द्रप्रभः छलोच्छेदी चन्द्रोपासितपत्कजः ।
क्रियापरः कृपागारः कृपालुः केशदुर्गतः ॥ ४ ॥

कारणं भद्रकूपारः कलावित् कुमतान्तकृत् ।
मद्रपूर्णः कृतान्तज्ञः कृतकृत्यः कृपापरः ॥ ५ ॥

कृतज्ञः कमलादाता कृतान्तार्थप्ररूपकः ।
भद्रमूर्तिः कृपासिन्धुः कामघटः कृतक्रियः ॥ ६ ॥

कामहा शोचनातीतः कृतार्थः कमलाकरः ।
चारुमूर्तिश्चिदानन्दश्चिन्तामणिश्चिरन्तनः ॥ ७ ॥

चिदानन्दमयश्चिन्तावर्जितो लोभतर्जितः ।
कर्महा बन्धमोक्षज्ञः कृपावान् कान्तिकारकः ॥ ८ ॥

कजनेत्रो नरत्राता कृतपुण्यः कृतान्तवित् ।
लोकाग्रणीवि(र्वि) रोधघ्नः कीर्तिमान् खगसेवितः ॥ ९ ॥

अयाचितो महोत्साहश्चिदूपश्चिन्मयो वृतिः ।
भद्रयुक्तः स्वयम्बुद्धोऽनल्पबुद्धिर्दमेशिता ॥ १० ॥

विश्वकर्मा कलादक्षः कल्पवृक्षः कलानिधिः ।
लोभतिरस्कृतः सूक्ष्मो लोभहृत् कृतलक्षणः ॥ ११ ॥

लोकोत्तमो जनाधीशो लोकधाता कृपालयः ।
सूक्ष्मदर्श्येन्दुनीलाभो लोकावतंसकः क्षमः ॥ १२ ॥

शिष्टेष्टोऽप्रतिभः शान्तिश्छत्रत्रयविभूषितः ।
चामीकरासनारूढः श्रीशः कल्याणशासनः ॥ १३ ॥

कर्मण्योऽत्रभवान् भद्रः शान्तिकरः प्रजाहितः ।
भव्यमानवकोटीरो मुक्तिजानिः श्रियान्निधिः ॥ १४ ॥

कल्याणशतम् ॥ १००० ॥ छ ॥

अमूनि तव नामानि पठन्ति ये नरोत्तमाः ।
भवेयुः सम्पदस्तेषां सिद्धयश्चापि मञ्जुलाः ॥ १ ॥

स्वामिन् ! जिहवासहस्रोऽपि वञ्चु शक्तो न ते गुणान् ।
सहस्राक्षो न ते रूपश्रियं निरीक्षितुं क्षमः ॥ २ ॥

त्वच्चेतसि प्रवर्तेऽहमित्युदन्तो हि दुर्लभः ।
मच्चित्ते विद्यसे त्वं चेत् देवेनान्येन पूर्यताम् ॥ ३ ॥

हर्षबाष्पजलैर्भव्यैर्मन्नेत्रे त्वन्मुखाश्रिते ।
अन्यप्रेक्षणसम्भूतं क्षालय(ये) तां मलं निजम् ॥ ४ ॥

त्वद्वक्त्रसङ्गिनी नेत्रे त्वत्परीष्टिकरौ करौ ।
त्वद्गुणग्राहके श्रोत्रे भूयास्तां मे मुदा सदा ॥ ५ ॥

ऋद्धित्वं हि प्रभुत्वं वा मनोवाच्छितमन्वहम् ।
सौभाग्यत्वं नृपत्वं वै लभेरन् तव भक्तितः ॥ ६ ॥

त्वमसि नाथ! भवार्णवनाविकस्त्वमसि सौख्यकदम्बककारकः ।
त्वमसि सिद्धिवधूस्तननायकस्त्वमसि सप्तनयार्थविचक्षणः ॥ ७ ॥

त्वमसि दुःखनिवारणतत्परस्त्वमसि मुक्तिवशारतिहर्षितः ।
त्वमसि भव्यकुशेशयभास्करस्त्वमसि देवनराधिपसेवितः ॥ ८ ॥

त्वमसि मोहमतङ्गजकेशरी त्वमसि नाथ! जगज्जनवत्सलः ।
त्वमसि दुःकृतमन्मथशङ्करस्त्वमसि कोपशिलोच्चयमुद्गरः ॥ ९ ॥

भृत्योऽस्मि तव दासोऽहं विनयी तेऽस्मि किङ्करः ।
नाथ! त्वच्चरणाधारो लभे शं भवदाश्रितः ॥ १० ॥

जयन्तु ते श्रीगुरुधर्ममूर्तयो गणाधिराजा मुनिसङ्घपालकाः ।
अनेकवादीश्वरवादसिन्दुराभिमानपञ्चास्यनिभाः क्रियापराः ॥ ११ ॥

श्रीधर्ममृर्तिसूरीशाः सूरिश्रेणिवतंसकाः ।
कल्याणवपुषो नूनं चिरं नन्दन्तु सत्तमाः ॥ १२ ॥

तदंह्रिकजरोलम्बः शिष्यः कल्याणसागरः ।
चकार पार्श्वनाथस्य नामावलीमभीष्टदाम् ॥ १३ ॥

पुण्यरूपमिदं स्तोत्रं नित्यमध्येति भाक्तिकः ।
तस्य धाम्नि महालक्ष्यीरेधते सौख्यदायका ॥ १४ ॥

॥ इति श्रीपार्श्वनाथनामान्यष्टोत्तरसहस्रमितानि समाप्तान्यजनिषत ॥

Please follow and like us:
error2
fb-share-icon20
Tweet 20

Oh hi there 👋 It’s nice to meet you.

Sign up to receive awesome content in your inbox, every month.

Tourist places

Panchdeheriya Mahadev Mandir, Agar Malwa

Nestled in the lap of the Vindhya mountain ranges lies a divine shrine where the tranquility of nature blends with...
Read More
Tourist places

Chausath Yogini Mata Temple, Agar Malwa – Mysticism, Legends, and Spiritual Energy

Introduction – An Open Sky and a Circle of Goddesses The Chausth Yogini Temple in Agar Malwa is one of...
Read More
Tourist places

Badi Mata Pacheti Temple: A Spiritual Treasure of Agar-Malwa

In Agar-Malwa district of Madhya Pradesh, there is a temple where the devotion of the devotees and the blessings of...
Read More
Tourist places

Maa Tulja Bhavani Mandir, Agar Malwa

In the Malwa region of Madhya Pradesh, near Agar-Malwa district, lies an ancient temple — Maa Tulja Bhavani Mandir. This...
Read More
Tourist places

Kewda Swami Bhairavnath Temple, Agar Malwa (Madhya Pradesh)

Kewda Swami Bhairavnath Temple is an ancient and famous temple located in the Agar-Malwa district of Madhya Pradesh. The temple...
Read More
Katni tourist places Tourist places

Nandchand Shiva Temple, Rithi – Katni: A Unique Blend of Devotion and Ancient Heritage

Located a few kilometers away from Rithi in Katni district, Madhya Pradesh, the Nandchand Shiva Temple beautifully combines devotion and...
Read More
Tourist places

Nohleshwar Mahadev Temple, Nohta – A Living Example of History, Culture, and Architecture

Located in the small village of Nohta in Jabera Tehsil of Damoh district, Madhya Pradesh, Nohleshwar Mahadev Temple is not...
Read More
Tourist places Uncategorized

Nohata Jain Temple – A Confluence of Faith, History and Miracles

Shri Digambar Jain Atishay Kshetra, Adishwargiri (Nohata), located in Jabera tehsil of Damoh district, Madhya Pradesh, is not only a...
Read More
1 2 3 12

डिस्क्लेमर (अस्वीकरण): ये खबर लोक मान्यताओं पर आधारित है। इस खबर में शामिल सूचना और तथ्यों की सटीकता, संपूर्णता के लिए https://newandolder.com/ उत्तरदायी नहीं है।

Disclaimer: This news is based on public beliefs. https://newandolder.com/ is not responsible for the accuracy, completeness of the information and facts included in this news.